वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: वसुश्रुत आत्रेयः छन्द: पङ्क्तिः स्वर: पञ्चमः काण्ड:

ओ꣡भे सु꣢꣯श्चन्द्र विश्पते꣣ द꣡र्वी꣢ श्रीणीष आ꣣स꣡नि꣢ । उ꣣तो꣢ न꣣ उ꣡त्पु꣢पूर्या उ꣣क्थे꣡षु꣢ शवसस्पत꣣ इ꣡ष꣢ꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥१०२४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

ओभे सुश्चन्द्र विश्पते दर्वी श्रीणीष आसनि । उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषꣳ स्तोतृभ्य आ भर ॥१०२४॥

मन्त्र उच्चारण
पद पाठ

आ꣢ । उ꣣भे꣡इति꣣ । सु꣣श्चन्द्र । सु । चन्द्र । विश्पते । द꣢र्वी꣢꣯इ꣡ति꣢ । श्री꣣णीषे । आस꣡नि꣢ । उ꣣त꣢ । उ꣣ । नः । उ꣣त् । पु꣣पूर्याः । उक्थे꣡षु꣢ । श꣣वसः । पते । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥१०२४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1024 | (कौथोम) 3 » 2 » 21 » 3 | (रानायाणीय) 6 » 7 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में शिष्य परमेश्वर से प्रार्थना कर रहे हैं।

पदार्थान्वयभाषाः -

हे (सुश्चन्द्र) शुभ आह्लाद देनेवाले, (विश्पते) प्रजापालक अग्रनायक परमात्मन् ! आप (आसनि) खोले हुए मुख के तुल्य खाली स्थान में (उभे दर्वी) द्युलोक-पृथिवीलोक दोनों को (आश्रीणीषे) चारों ओर से परिपक्व करते हो। (उत उ) और, हे (शवसः पते) बल के अधीश्वर ! (उक्थेषु) प्रशंसित धर्म-कर्मों में (नः) हमें (उत्पुपूर्याः) पूर्ण करो। (स्तोतृभ्यः) हम स्तोताओं के लिए (इषम्) अभीष्ट गुण-कर्म-स्वभाव आदि (आभर) लाओ ॥३॥

भावार्थभाषाः -

जैसे जगदीश्वर द्यावापृथिवी को परिपक्व और परिपूर्ण करता है, वैसे ही वह स्तोताओं को परिपक्व मतिवाला तथा धर्म-कर्म में पूर्ण करे ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ शिष्याः परमेश्वरं प्रार्थयन्ते।

पदार्थान्वयभाषाः -

हे (सुश्चन्द्र) शुभाह्लादक, (विश्पते) प्रजापालक अग्ने अग्रणीः परमात्मन् ! त्वम् (आसनि) व्यादत्ते मुखे इव अवकाशस्थले (उभे दर्वी) उभे द्यावापृथिव्यौ। [दीर्येते प्रलयकाले ये ते दर्वी। दृ विदारणे धातोः ‘वृदृभ्यां विन्’। उ० ४।५४ इत्यनेन विन् प्रत्ययः। दर्व्यौ इति प्राप्ते पूर्वसवर्णदीर्घः।] (आश्रीणीषे) समन्ततः परिपक्वे करोषि। (उत उ) अपि च हे (शवसः पते) बलस्य अधीश्वर ! (उक्थेषु) प्रशंसितेषु धर्म्येषु कर्मसु२ (नः) अस्मान् (उत्पुपूर्याः) पूर्णान् कुर्याः। [पॄ पालनपूरणयोः,जुहोत्यादिः, लिङ्।] (स्तोतृभ्यः) स्तावकेभ्यः अस्मभ्यम् (इषम्) अभीष्टं गुणकर्मस्वभावादिकम् (आ भर) आहर ॥३॥३

भावार्थभाषाः -

यथा जगदीश्वरो द्यावापृथिव्यौ परिपक्वे परिपूर्णे च करोति तथैव स स्तोतॄन् परिपक्वमतीन् धर्मकर्मसु पूर्णांश्च कुर्यात् ॥३॥

टिप्पणी: १. ऋ० ५।६।९, ‘उ॒भे सु॑श्चन्द्र स॒र्पिषो॒’ इति प्रथमः पादः। २. द्रष्टव्यम् ऋ० ५।६।९ दयानन्दभाष्यम्। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं ‘यो राजा सैन्यस्य भोजनप्रबन्धमुत्तममारोग्याय वैद्यान् रक्षति स एव प्रशंसितो भूत्वा राज्यं वर्धयति’ इति विषये व्याख्यातवान्।